(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.147. अध्यायः 147
Mahabharata - Vana Parva - Chapter Topics
भीमसेनस्मरणमात्रसन्निहितेन घटोत्कचेन दुर्गमे पथि द्रौपद्या वहनम् ॥ 1 ॥ तदनुचरै राक्षसैः पाण्डवानां विप्राणं च वहनम् ॥ 2 ॥ सर्वैर्नरनारायणाश्रममेत्य तत्र सुखेन निवासः ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text

युधिष्ठिर उवाच। 3-147-0x(2257)(21435)
धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुङ्गवः।
भक्तोऽस्मानौरसः पुत्रो नेतुमर्हति मातरम् ॥ 3-147-1(21436)
तव भीम सुतेनाहं नीतो भीमपराक्रम।
अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् ॥ 3-147-2(21437)
वैशम्पायन उवाच। 3-147-3x(2258)
भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम्।
`चिन्तयामास बलवान्महाबलपराक्रमम् ॥ 3-147-3(21438)
घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा।
कृताञ्जलिरुषातिष्ठदभिवाद्याथ पाण्डवान्।
ब्राह्मणांश्च महाबाहुः स च तैरमिनन्दितः ॥ 3-147-4(21439)
उवाच भीमसेनं स पितरं सत्यविक्रमः ॥ 3-147-5(21440)
स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः।
आज्ञापय महाबाहो सर्वं कर्ताऽस्म्यसंशयम् ॥ 3-147-6(21441)
तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे।
चिन्ताया समनप्राप्तमित्युवाच वृकोदरः'॥ 3-147-7(21442)
हैडिम्बेय परिश्रान्ता तव माताऽपराजिता।
त्वं कच कामगमस्तात बलवान्वह तां खग ॥ 3-147-8(21443)
स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा।
गच्छ नीचिकया गत्या यथा चैनां न पीडयेः ॥ 3-147-9(21444)
घटोत्कच उवाच। 3-147-10x(2259)
धर्मराजं च धौम्यं च कृष्णां च यमजौ तथा।
एकोप्यहमलं वोढुं किमुताद्य सहायवान् ॥ 3-147-10(21445)
[अन्ये च शतशः शूरा विहङ्गाः कामरूपिणः।
सर्वान्वो ब्राह्मणैः सार्धं वक्ष्यन्ति सहिताऽनघ।
`मन्दंमन्दं गमिष्यामि वहन्द्रुपदनन्दिनीम्' ॥ 3-147-11(21446)
वैश्पायन उवाच। 3-147-12x(2260)
एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः।
पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे ॥ 3-147-12(21447)
लोमशः सिद्धमार्गेण जगामानुपमद्युतिः।
स्वेनैव स प्रभावेण द्वीतीय इव भास्करः ॥ 3-147-13(21448)
ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः।
नियोगाद्राक्षसेनद्रस्य जग्मुर्भीमपराक्रमाः ॥ 3-147-14(21449)
एवं सुरमणीयानि वनान्युपवनानि च।
आलोकयन्तस्ते जग्मुर्विशालां बदरीमनु ॥ 3-147-15(21450)
ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाजवैः।
उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् ॥ 3-147-16(21451)
देशान्म्लेच्छजनाकीर्णान्नानारत्नाकरायुतान्।
ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् ॥ 3-147-17(21452)
विद्याघरमाकीर्णआन्युतान्वानरकिन्नरैः।
तथा किंपुरुषैश्चैव गन्धर्वैश्चसमन्ततः ॥ 3-147-18(21453)
मयूरैश्चभरैश्चैव हरिणै रुरुभिस्तथा।
वराहैर्गवयैश्चैव महिषैश्च समावृतान् ॥ 3-147-19(21454)
नदीजालसमाकीर्णान्नानापक्षियुतान्बहून्।
नानाविधमृगैर्जुष्टांश्चारणैश्चोपशोभितान्।
समदैश्च्यशि विहगैः उपैरन्वितांस्तथा ॥ 3-147-20(21455)
तेऽवतीर्य बहून्देशानुत्तरांश्च कुरूनपि।
ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् ॥ 3-147-21(21456)
तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम्।
उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः ॥ 3-147-22(21457)
ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम्।
स्निग्धामविरलच्छायां श्रिया परमया युताम् ॥ 3-147-23(21458)
पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम्।
विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् ॥ 3-147-24(21459)
फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम्।
मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम्।
मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् ॥ 3-147-25(21460)
अदंशमशके देशे बहुमूलफलोदके।
नीलशाद्वलसंछन्ने देवगन्धर्वसेविते ॥ 3-147-26(21461)
सुभूमिभागविशदे स्वभावविदिते शुभे।
जातां हिममृदुस्पर्शे देशेऽपहतकण्टके ॥ 3-147-27(21462)
तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः।
अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः ॥ 3-147-28(21463)
ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम्।
ददृशुः पाण्डवा राजन्सहिता द्विजपुङ्गवैः ॥ 3-147-29(21464)
तमसा रहितं पुण्यमनामृष्टं रवेः करैः।
क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम् ॥ 3-147-30(21465)
महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम्।
दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः ॥ 3-147-31(21466)
बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम्।
दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम् ॥ 3-147-32(21467)
विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः।
महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् ॥ 3-147-33(21468)
शरण्यं सर्वभूतानां ब्रह्मघोपनिनादितम्।
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम्।
श्रिया युतमनिर्देश्यं देववर्योपशोभितम् ॥ 3-147-34(21469)
फलमूलाशनैर्दान्तैश्चारुकृष्णाजिनाम्बरैः।
सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः ॥ 3-147-35(21470)
महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः।
ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः ॥ 3-147-36(21471)
सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः।
भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः ॥ 3-147-37(21472)
दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम्।
अभ्यगच्छन्त सुप्रीता दिव्या देवमहर्षयः। 3-147-38(21473)
प्रीतास्ते तस्य सत्कारं विधिना पावकापमाः।
उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि ॥ 3-147-39(21474)
स तैः प्रीत्याऽथ सत्कारमुपनीतं महर्षिभिः।
प्रयतः प्रतिगृह्याथ धर्मराजो युधिष्ठिरः ॥ 3-147-40(21475)
तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम्।
प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया ॥ 3-147-41(21476)
रविवेश शोभया युक्तं भ्रातृभिश्च सहानघ।
ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहार्चितः ॥ 3-147-42(21477)
तत्रापश्यत्स धर्मात्मा देवदेवर्पिपूजितम्।
नरनारायणस्थानं भागीरथ्योपशोभितम् ॥ 3-147-43(21478)
तस्मिन्मधृस्रवफलां ब्रह्मर्षिगणभाविनीम्।
वदरीं तामुपाश्रित्य पाण्डवो भ्रातृभिः सह ॥ 3-147-44(21479)
मुदा युक्ता महात्मानो रेमिरे तत्र ते तदा।
आलोकयन्तो मैनाकं नानाद्विजगणायुतम्।
हिरण्यशिखरं चैव मध्ये विन्दुसरः शिवम् ॥ 3-147-45(21480)
भागीरथीं सुतीर्थां च शीतामलजलां शिवाम्।
मणिप्रवालप्रस्तारां पादपैरुषशोभिताम् ॥ 3-147-46(21481)
दिव्यपुष्पसमाकीर्णां मनःप्रीतिविवर्धनीम्।
वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः ॥ 3-147-47(21482)
तस्मिन्देवर्षिचरिते देशे परमदुर्गमे।
भागीरथीपुण्यजलेतर्पयांचक्रिरे पितॄन्।
देवानृषींश्च कौन्तेयाः परमं शौचमास्थिताः ॥ 3-147-48(21483)
तत्र ते तर्पयन्तश्च जपन्तश्च कुरूद्वहाः।
ब्राह्मणैः सहिता वीरा ह्यवसन्पुरुपर्षभाः ॥ 3-147-49(21484)
कृष्णायास्तत्रपशय्न्तः क्रीडितान्यमरप्रभाः।
विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः ॥ 3-147-50(21485)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 147 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-147-11 वक्ष्यन्ति वहनं करिष्यन्ति ॥ 3-147-17 रत्नाकरैः आसमन्तात् युतान् ॥ 3-147-22 अभ्याशे समीपे ॥ 3-147-27 स्वभावत एव विशेषेण रहिते स्वभावविहिते। जातां बदरीम् ॥ 3-147-33 अग्निशरणैः अग्न्यगारैः। आचितं व्याप्तम्। कठिनैः शिक्यैः करण्डैर्वा ॥ 3-147-39 सत्कारं चक्रुरिति शेषः ॥ 3-147-46 सीतां विमलपङ्कजाम् इति झ. पाठः। सीतां नामतः। प्रस्तारः सोपानपादगणादिरूपः। षट्ट इत्यर्थः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.